वांछित मन्त्र चुनें
आर्चिक को चुनें

प्र꣡ तत्ते꣢꣯ अ꣣द्य꣡ शि꣢पिविष्ट ह꣣व्य꣢म꣣र्यः꣡ श꣢ꣳसामि व꣣यु꣡ना꣢नि वि꣣द्वा꣢न् । तं꣡ त्वा꣢ गृणामि त꣣व꣢स꣣म꣡त꣢व्या꣣न्क्ष꣡य꣢न्तम꣣स्य꣡ रज꣢꣯सः परा꣣के꣢ ॥१६२६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

प्र तत्ते अद्य शिपिविष्ट हव्यमर्यः शꣳसामि वयुनानि विद्वान् । तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके ॥१६२६॥

मन्त्र उच्चारण
पद पाठ

प्र । तत् । ते꣣ । अद्य꣢ । अ꣣ । द्य꣢ । शि꣣पिविष्ट । शिपि । विष्ट । हव्य꣢म् । अ꣣र्यः꣢ । श꣣ꣳसामि । व꣡युना꣢नि । वि꣣द्वा꣢न् । तम् । त्वा꣣ । गृणामि । तव꣡स꣢म् । अ꣡त꣢꣯व्यान् । अ । त꣣व्यान् । क्ष꣡य꣢꣯न्तम् । अ꣣स्य꣢ । र꣡ज꣢꣯सः । प꣣राके꣢ ॥१६२६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1626 | (कौथोम) 8 » 1 » 4 » 2 | (रानायाणीय) 17 » 1 » 4 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा की स्तुति है।

पदार्थान्वयभाषाः -

हे (शिपिविष्ट) तेज की किरणों से घिरे हुए अर्थात् तेजस्वी सर्वव्यापक विष्णु जगदीश्वर ! (अर्यः) स्तुतियों का ईश्वर और(वयुनानि विद्वान्) कर्तव्य कर्मों को जाननेवाला मैं (अद्य) आज(ते) आपके (तत्) उस प्रसिद्ध (हव्यम्) दान की (प्र शंसामि)प्रशंसा करता हूँ। (अतव्यान्) अमहान् मैं (तवसम्) महान् और(अस्य रजसः) इस रजोगुण के (पराके) परे (क्षयन्तम्) निवास करनेवाले (तम्) उस प्रसिद्ध (त्वा) आपकी (गृणामि) स्तुति करता हूँ ॥२॥

भावार्थभाषाः -

अल्पशक्तिवाला मनुष्य महाशक्तिवाले परमात्मा के गुणों के स्मरण से निरभिमान होकर महान् कार्यों को करने के लिए अपने आत्मा में बल सञ्चित करे ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मानं स्तौति।

पदार्थान्वयभाषाः -

हे (शिपिविष्ट) तेजःकिरणैरावृत विष्णो सर्वव्यापक जगदीश! (अर्यः) स्तुतीनामीश्वरः। [अर्य इतीश्वरनाम। निघं० २।२२।] (वयुनानि विद्वान्) कर्तव्यकर्माणि जानानः अहम् (अद्य) अस्मिन् दिने (ते) तव (तत्) प्रसिद्धम् (हव्यम्) दानम् (प्र शंसामि) प्रकर्षेण स्तौमि। (अतव्यान्) अतवीयान्, अवृद्धतरः अहम् (तवसम्) प्रवृद्धम्, (अस्य रजसः) अस्य रजोगुणस्य(पराके) दूरे (क्षयन्तम्) क्षियन्तं निवसन्तम् (तम्) प्रसिद्धम्(त्वा) त्वाम्, (गृणामि) स्तौमि ॥२॥

भावार्थभाषाः -

अल्पशक्तिर्मानवो महाशक्तेः परमात्मनो गुणानां स्मरणेन निरभिमानो भूत्वा महान्ति कार्याणि कर्तुं स्वात्मनि बलं सञ्चिनुयात् ॥२॥